मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् १

संहिता

अ॒ग्निनेन्द्रे॑ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा॑ ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥

पदपाठः

अ॒ग्निना॑ । इन्द्रे॑ण । वरु॑णेन । विष्णु॑ना । आ॒दि॒त्यैः । रु॒द्रैः । वसु॑ऽभिः । स॒चा॒ऽभुवा॑ ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विना अश्विनौ अग्निना इन्द्रेण वरुणेन विष्णुना आदित्यैरुद्रैर्वसुभिश्च सचाभुवा सहभूतौ उषसा सूर्येणच सजोषसा संगतौ युवां सोमं पिबतम् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४