मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् ३

संहिता

विश्वै॑र्दे॒वैस्त्रि॒भिरे॑काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिः सचा॒भुवा॑ ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ सोमं॑ पिबतमश्विना ॥

पदपाठः

विश्वैः॑ । दे॒वैः । त्रि॒ऽभिः । ए॒का॒द॒शैः । इ॒ह । अ॒त्ऽभिः । म॒रुत्ऽभिः॑ । भृगु॑ऽभिः । स॒चा॒ऽभुवा॑ ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विनौ विश्वैर्देवैः त्रिभिः एकादशैः त्रयस्त्रिंशैः इहयज्ञे अद्धिः मरुद्धिः भृगुभिश्च सचाभुवा सहभूतौ उषसा सूर्येणच संगतौ युवां सोमं पिबतम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४