मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् ४

संहिता

जु॒षेथां॑ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥

पदपाठः

जु॒षेथा॑म् । य॒ज्ञम् । बोध॑तम् । हव॑स्य । मे॒ । विश्वा॑ । इ॒ह । दे॒वौ॒ । सव॑ना । अव॑ । ग॒च्छ॒त॒म् ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ । इष॑म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विनौ देवौ यज्ञं जुषेथां सेवेथाम् । मे मम हवस्य हवं बोधतं जानीतम् । इहयज्ञे विश्वा सवना सर्वाणि सवनानि अवगच्छतं प्राप्नुतम् । इयं अन्नं आवोह्ळं प्रापयतम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४