मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् ५

संहिता

स्तोमं॑ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥

पदपाठः

स्तोम॑म् । जु॒षे॒था॒म् । यु॒व॒शाऽइ॑व । क॒न्यना॑म् । विश्वा॑ । इ॒ह । दे॒वौ॒ । सव॑ना । अव॑ । ग॒च्छ॒त॒म् ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ । इष॑म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विनौ देवौ युवां इहास्मिन्यज्ञे स्तोमं जुषेथां सेवेथाम् । युवशेव यथा युवानौ कन्यनां कन्यानामाह्वानं सेवेते तद्वदित्यर्थः । इहयज्ञे विश्वानि सवनान्यवगच्छत प्राप्नुतम् । सिद्धमन्यत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४