मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् ६

संहिता

गिरो॑ जुषेथामध्व॒रं जु॑षेथां॒ विश्वे॒ह दे॑वौ॒ सव॒नाव॑ गच्छतम् ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चेषं॑ नो वोळ्हमश्विना ॥

पदपाठः

गिरः॑ । जु॒षे॒था॒म् । अ॒ध्व॒रम् । जु॒षे॒था॒म् । विश्वा॑ । इ॒ह । दे॒वौ॒ । सव॑ना । अव॑ । ग॒च्छ॒त॒म् ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ । इष॑म् । नः॒ । वो॒ळ्ह॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे देवौ अश्विनौ अस्माकं गिरः स्तुतीः जुषेथां सेवेथाम् । तथा अध्वरं यज्ञच्च जुषेथाम् । इहयज्ञे विश्वा विश्वानि सवनानि अवगच्छतं प्राप्नुतम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४