मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् ९

संहिता

श्ये॒नावि॑व पतथो ह॒व्यदा॑तये॒ सोमं॑ सु॒तं म॑हि॒षेवाव॑ गच्छथः ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण च॒ त्रिर्व॒र्तिर्या॑तमश्विना ॥

पदपाठः

श्ये॒नौऽइ॑व । प॒त॒थः॒ । ह॒व्यऽदा॑तये । सोम॑म् । सु॒तम् । म॒हि॒षाऽइ॑व । अव॑ । ग॒च्छ॒थः॒ ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । त्रिः । व॒र्तिः । या॒त॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विनौ य्रुवां श्येनाविव यथाश्येनौ गगनंगच्छतस्तथा वेगेन सुतं सोमं हव्यदातये यजमानार्थं पतथोगच्छथः । सिद्धमन्यत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५