मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् १०

संहिता

पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥

पदपाठः

पिब॑तम् । च॒ । तृ॒प्णु॒तम् । च॒ । आ । च॒ । ग॒च्छ॒त॒म् । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । ऊर्ज॑म् । नः॒ । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विनौ युवां सोमं पिबतञ्च तृप्णुतञ्च तृप्यतंच पानार्थं तुप्त्यर्थं चागच्छतं सोमंपीत्वा तृप्तौसंतौ युवां अस्मभ्यं प्रजाञ्च धत्तं धारयतं द्रविणं धनञ्च धत्तम् उषसासूर्येणच संगतौ नोस्मभ्यं ऊर्जं बलंच धत्तम् ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५