मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् ११

संहिता

जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा॑वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥

पदपाठः

जय॑तम् । च॒ । प्र । स्तु॒त॒म् । च॒ । प्र । च॒ । अ॒व॒त॒म् । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । ऊर्ज॑म् । नः॒ । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विनौ युवां जयतं शत्रूंश्च जयतम् प्रस्तुतं स्तोतॄंश्च प्रचावतमस्मांश्च प्ररक्षतम् । अन्यत्सिद्धम् ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५