मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् १२

संहिता

ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिणः॑ प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥

पदपाठः

ह॒तम् । च॒ । शत्रू॑न् । यत॑तम् । च॒ । मि॒त्रिणः॑ । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । ऊर्ज॑म् । नः॒ । ध॒त्त॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विनौ युवां शत्रूंश्च हतम् अपिच यततं मित्रिणोमैत्रीयुक्तांश्च गच्छतम् । सिद्धमन्यत् ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५