मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् १३

संहिता

मि॒त्रावरु॑णवन्ता उ॒त धर्म॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥

पदपाठः

मि॒त्रावरु॑णऽवन्तौ । उ॒त । धर्म॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

उतापिच हे अश्विनौ युवां मित्रावरुणवन्तौ मित्रावरुणयुक्तौ धर्मवन्ता धर्मयुक्तौ उतापिच मरुत्वन्ता मरुद्धिर्युक्तौच जरितुः स्तोतुर्हवमाह्वानं गच्छथः आगच्छतम् । उषसासूर्येण चादित्यैश्च सजोषसा संगतौ यातं गच्छतम् ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६