मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् १५

संहिता

ऋ॒भु॒मन्ता॑ वृषणा॒ वाज॑वन्ता म॒रुत्व॑न्ता जरि॒तुर्ग॑च्छथो॒ हव॑म् ।
स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण चादि॒त्यैर्या॑तमश्विना ॥

पदपाठः

ऋ॒भु॒ऽमन्ता॑ । वृ॒ष॒णा॒ । वाज॑ऽवन्ता । म॒रुत्व॑न्ता । ज॒रि॒तुः । ग॒च्छ॒थः॒ । हव॑म् ।
स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । आ॒दि॒त्यैः । या॒त॒म् । अ॒श्वि॒ना॒ ॥

सायणभाष्यम्

हे अश्विनौ ऋभुमंता ऋभुसहितौ वृषणा कामानां वर्षितारौ वाजवन्ता वाजयुक्तौ मरुत्वन्तौच स्तोतुराह्वानं गच्छतम् । ऋभुमन्ता वाजवन्तेति ज्येष्ठकनिष्ठाभ्यां व्यपदेशः । सिद्धमन्यत् ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६