मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३५, ऋक् २३

संहिता

न॒मो॒वा॒के प्रस्थि॑ते अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये॑ ।
आ या॑तमश्वि॒ना ग॑तमव॒स्युर्वा॑म॒हं हु॑वे ध॒त्तं रत्ना॑नि दा॒शुषे॑ ॥

पदपाठः

न॒मः॒ऽवा॒के । प्रऽस्थि॑ते । अ॒ध्व॒रे । न॒रा॒ । वि॒वक्ष॑णस्य । पी॒तये॑ ।
आ । या॒त॒म् । अ॒श्वि॒ना॒ । आ । ग॒त॒म् । अ॒व॒स्युः । वा॒म् । अ॒हम् । हु॒वे॒ । ध॒त्तम् । रत्ना॑नि । दा॒शुषे॑ ॥

सायणभाष्यम्

हे अश्विना नरा नेतारौ युवां विवक्षणस्य हवनशीलस्य मम प्रस्थिते नमोवाके । नमस्काराय प्रोच्यते सनमोवाकस्तस्मिन्नध्वरे यज्ञे । तथाच ब्राह्म- णम्-उभयं सहवा एतद्यज्ञे सूक्तवाकश्च ममोवाकश्चेति । पीतये सोमपानायायातम् । सिद्धमन्यत् ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७