मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३६, ऋक् २

संहिता

प्राव॑ स्तो॒तारं॑ मघव॒न्नव॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥

पदपाठः

प्र । अ॒व॒ । स्तो॒तार॑म् । म॒घ॒ऽव॒न् । अव॑ । त्वाम् । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥

सायणभाष्यम्

हे मघवन् स्तोतारं प्राव प्ररक्ष त्वांचाव सोमपानेन रक्ष । सिद्धमन्यत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८