मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३६, ऋक् ३

संहिता

ऊ॒र्जा दे॒वाँ अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा॑य॒ कं श॑तक्रतो ।
यं ते॑ भा॒गमधा॑रय॒न्विश्वा॑ः सेहा॒नः पृत॑ना उ॒रु ज्रय॒ः सम॑प्सु॒जिन्म॒रुत्वाँ॑ इन्द्र सत्पते ॥

पदपाठः

ऊ॒र्जा । दे॒वान् । अव॑सि । ओज॑सा । त्वाम् । पिब॑ । सोम॑म् । मदा॑य । कम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
यम् । ते॒ । भा॒गम् । अधा॑रयन् । विश्वाः॑ । से॒हा॒नः । पृत॑नाः । उ॒रु । ज्रयः॑ । सम् । अ॒प्सु॒ऽजित् । म॒रुत्वा॑न् । इ॒न्द्र॒ । स॒त्ऽप॒ते॒ ॥

सायणभाष्यम्

हे इन्द्र त्वं देवानूर्जान्नेन हविषावसि रक्षसि त्वामप्योजसा बलेनावसि । सिद्धमन्यत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८