मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३७, ऋक् २

संहिता

से॒हा॒न उ॑ग्र॒ पृत॑ना अ॒भि द्रुहः॑ शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।
माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

पदपाठः

से॒हा॒नः । उ॒ग्र॒ । पृत॑नाः । अ॒भि । द्रुहः॑ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।
माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥

सायणभाष्यम्

हे शचीपते कर्मपते उग्र उद्गूर्णेन्द्र अभिद्रुहो द्रोग्ध्रीः पृतनाः सेनाः सेहानोभिभवन् सर्वैः पालनैः ब्राह्मणान्प्राविथेत्यर्थः । सिद्धमन्यत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९