मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३७, ऋक् ३

संहिता

ए॒क॒राळ॒स्य भुव॑नस्य राजसि शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।
माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

पदपाठः

ए॒क॒ऽराट् । अ॒स्य । भुव॑नस्य । रा॒ज॒सि॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।
माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥

सायणभाष्यम्

हे शचीपते इन्द्र अस्य भुवनस्य एकराट् एकएव राजा सम् राजसि भ्राजसे । सिद्धमन्यत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९