मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३७, ऋक् ५

संहिता

क्षेम॑स्य च प्र॒युज॑श्च॒ त्वमी॑शिषे शचीपत॒ इन्द्र॒ विश्वा॑भिरू॒तिभि॑ः ।
माध्यं॑दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ॥

पदपाठः

क्षेम॑स्य । च॒ । प्र॒ऽयुजः॑ । च॒ । त्वम् । ई॒शि॒षे॒ । श॒ची॒ऽप॒ते॒ । इन्द्र॑ । विश्वा॑भिः । ऊ॒तिऽभिः॑ ।
माध्य॑न्दिनस्य । सव॑नस्य । वृ॒त्र॒ऽह॒न् । अ॒ने॒द्य॒ । पिब॑ । सोम॑स्य । व॒ज्रि॒ऽवः॒ ॥

सायणभाष्यम्

अपिच हे शचीपते इन्द्र त्वं सर्वस्य जगतः क्षेमस्य प्रयुजश्च प्रयोगस्य च योगक्षेमयोरित्यर्थः ईशिषे ईश्वरोभवसि । सिद्धमन्यत् ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९