मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३९, ऋक् २

संहिता

न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषाम् ।
न्यरा॑ती॒ ररा॑व्णां॒ विश्वा॑ अ॒र्यो अरा॑तीरि॒तो यु॑च्छन्त्वा॒मुरो॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

नि । अ॒ग्ने॒ । नव्य॑सा । वचः॑ । त॒नूषु॑ । शंस॑म् । ए॒षा॒म् ।
नि । अरा॑तीः । ररा॑व्णाम् । विश्वाः॑ । अ॒र्यः । अरा॑तीः । इ॒तः । यु॒च्छ॒न्तु॒ । आ॒ऽमुरः॑ । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

हे अग्ने तनूष्वस्माकमंगेषु नव्यसा नवतरेण वचः वचसा स्तोत्रेण एषां शत्रूणां शंसं शंसनं निदहेत्यर्थः । रराव्णां हविःप्रयच्छन्तामरातीः शत्रूंश्च निदह । अपिच विश्वाः सर्वे अर्योभिगच्छन्त । आमुरः आमूढा अरातीः शत्रवः इतोयुच्छन्तु गच्छन्तु । सिद्धमन्यत् ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२