मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३९, ऋक् ४

संहिता

तत्त॑द॒ग्निर्वयो॑ दधे॒ यथा॑यथा कृप॒ण्यति॑ ।
ऊ॒र्जाहु॑ति॒र्वसू॑नां॒ शं च॒ योश्च॒ मयो॑ दधे॒ विश्व॑स्यै दे॒वहू॑त्यै॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

तत्ऽत॑त् । अ॒ग्निः । वयः॑ । द॒धे॒ । यथा॑ऽयथा । कृ॒प॒ण्यति॑ ।
ऊ॒र्जाऽआ॑हुतिः । वसू॑नाम् । शम् । च॒ । योः । च॒ । मयः॑ । द॒धे॒ । विश्व॑स्यै । दे॒वऽहू॑त्यै । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

यथा यथा यद्यदन्नं कृपण्यति स्तोतृभिर्याच्यते तत्तद्वयोग्निर्दधे स्तोतृभ्यः प्रयच्छति अपिचोर्जाहुतिरन्नेनाहूयमानोग्निः वसूनां हविषां वासकानां यजमानानां शं शांतिनिमित्तं योः विषययोगजनितं च मयः सूखं दधे करोति । विश्वस्यै देवहूत्यै सर्वस्मै देवानां ह्वानाय च भवति यः कश्चनापि देवो यदि हूयते अग्निरेव सर्वं करोतीत्यर्थः । सिद्धमन्यत् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२