मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३९, ऋक् ८

संहिता

यो अ॒ग्निः स॒प्तमा॑नुषः श्रि॒तो विश्वे॑षु॒ सिन्धु॑षु ।
तमाग॑न्म त्रिप॒स्त्यं म॑न्धा॒तुर्द॑स्यु॒हन्त॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

यः । अ॒ग्निः । स॒प्तऽमा॑नुषः । श्रि॒तः । विश्वे॑षु । सिन्धु॑षु ।
तम् । आ । अ॒ग॒न्म॒ । त्रि॒ऽप॒स्त्यम् । म॒न्धा॒तुः । द॒स्यु॒हन्ऽत॑मम् । अ॒ग्निम् । य॒ज्ञेषु॑ । पू॒र्व्यम् । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

योग्निः सप्तमानुषः विश्वेषु सर्वेषु सिन्धुषु नदीषु श्रितः त्रिपस्त्यं त्रिस्थानं मन्धातुः यौवनाश्वस्य मान्धातुर्दस्युहन्तमं दस्यूनां हन्तारं यज्ञेषु पूर्व्यं मुख्यं तमग्निं वयमागन्म । सिद्धमन्यत् ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३