मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ३९, ऋक् १०

संहिता

त्वं नो॑ अग्न आ॒युषु॒ त्वं दे॒वेषु॑ पूर्व्य॒ वस्व॒ एक॑ इरज्यसि ।
त्वामापः॑ परि॒स्रुत॒ः परि॑ यन्ति॒ स्वसे॑तवो॒ नभ॑न्तामन्य॒के स॑मे ॥

पदपाठः

त्वम् । नः॒ । अ॒ग्ने॒ । आ॒युषु॑ । त्वम् । दे॒वेषु॑ । पू॒र्व्य॒ । वस्वः॑ । एकः॑ । इ॒र॒ज्य॒सि॒ ।
त्वाम् । आपः॑ । प॒रि॒ऽस्रुतः॑ । परि॑ । य॒न्ति॒ । स्वऽसे॑तवः । नभ॑न्ताम् । अ॒न्य॒के । स॒मे॒ ॥

सायणभाष्यम्

हे पूर्व्याग्ने त्वमेकएव आयुषु मनुष्येषु द्रुत्द्यव आयव इति मनुष्यनामसु पाठात् नोस्माकं वस्वोधनस्य इरज्यसि ईशिषे देवेष्वपि त्वमेकएव वस्व इरज्यसि । अपिच त्वां स्वसेतवः स्वभुतसेतवः परिस्रुतः परिस्रवन्त्यः आपः परियन्ति । परिगच्छन्ति सिद्धमन्यत् ॥ १० ॥

इन्द्राग्नीयुवमिति द्वादशर्चं दशमं सूक्तं नाभाकस्यार्षं द्वितीया षट्पञ्चाशदक्षरा शक्वरी द्वादशीत्रिष्टुप् शिष्टामहापंक्तयः इन्द्राग्नीदेवता । तथाचा- नुक्रान्तम्-इन्द्राग्नीद्वादशैन्द्राग्नंत्रिष्टुबन्तं द्वितीया शक्वरीति । महाव्रते निष्केवल्ये ऊरुभागएव सूक्तम् । तथाचपञ्चमारण्यके सूत्रितम्-ऊरूइन्द्राग्नीयुवं- सुनइति । चातुर्विंशिकेहनि तृतीयसवने मैत्रावरुणो यदि महावालभिदं शंसेत्तदानीं माध्यन्दिने सवने होत्रकाःस्वशस्त्रे आरंभणीयाभ्यऊर्ध्वं नाभा- कतृचावावपेरन् तत्र ताहिमध्यमित्यच्छावाकस्य नाभाकतृचः । सूत्रितञ्च-ताहिमध्यंभराणामित्यच्छावाकइति । चातुर्विंशिकेहनि माध्यन्दिने सव- ने ब्राह्मणाच्छंसिनःपूर्वीष्टइन्द्रेति नाभाकतृचः । सूत्रितञ्च-पूर्वीष्टइन्द्रोपमातयइतिब्राह्मणाच्छंसीति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३