मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् १

संहिता

इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः ।
गिर॒ः स्तोमा॑स ईरते ॥

पदपाठः

इ॒मे । विप्र॑स्य । वे॒धसः॑ । अ॒ग्नेः । अस्तृ॑तऽयज्वनः ।
गिरः॑ । स्तोमा॑सः । ई॒र॒ते॒ ॥

सायणभाष्यम्

षष्ठेनुवाके षट् सूक्तानि तत्रेमेविप्रस्येति त्रयस्त्रिंशदृचं प्रथमं सूक्तम् आंगिरसस्य विरूपस्यार्षं गायत्रमग्निदेवताकम् । तथाचानुक्रान्तम्-इमे त्रयस्त्रिंशद्विरूपआंगिरसआग्नेयंत्विति । प्रातरनवाकेआग्नेयेक्रतौ गायत्रेछन्दसि आश्विनशस्त्रे चैतदादिके द्वे सूक्ते । सूत्रितञ्च-इमेविप्रस्येति सूक्तेइति । कारीर्यावभृथेष्ट्याः प्रथमाज्यभागस्याप्स्वग्नइति अनुवाक्या । तथाचसूत्रितमअप्सुमन्तावाज्यभागावप्स्वग्नेसधिष्टवेति । आग्नीध्रस्य प्रातःसवने प्रस्थितयाज्या । श्रूयतेच-उक्षान्नायवशान्नायेत्याग्नीध्रोयजतीति । अग्निवतीष्टौ त्वंह्यग्नइत्येषा याज्या सूत्रितञ्च-त्वंह्यग्नेअग्निना अग्नेत्वमस्मद्युयोध्य- मीवाइति । अग्निमन्थनेप्येषा । सूत्रितञ्च-त्वंह्यग्नेअग्निना तंमर्जयन्तसुक्रतुमिति । अग्नयेकामायाष्टाकपालेष्टौ तुभ्यंताअंगिरस्तमेत्येपानुवाक्या । सूत्रितञ्च-तुभ्यंताअंगिरस्तमाश्यामतंकाममग्नेतवोतीति कामयेति । अन्वाहिताग्नेः प्रयाणे समारोपणपक्षे अनयैकाहुतिः कर्तव्या । तथाचसूत्रितम्- तुभ्यंताअंगिरस्तमेति वाज्याहुतिंहुत्वा समारोपयेदिति । वैद्युताग्निनाग्नीनां संसर्गे अग्नयेप्सुमतीष्टिः तत्र यदग्नेदिविजाइतियाज्या । सूत्रितंच-यदग्ने- दिविजाअस्यग्निर्होतान्यसीदद्यजीयानिति ।

इमेस्मदीयाः स्तोमासः स्तोतारोविप्रस्य मेधाविनः वेधसोविधातुरस्तृतयज्वनोहिंसितयजमानस्याग्नेर्गिरः स्तुतीरीरते प्रेरयन्ति ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९