मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् ३

संहिता

आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विषः॑ ।
द॒द्भिर्वना॑नि बप्सति ॥

पदपाठः

आ॒रो॒काःऽइ॑व । घ॒ । इत् । अह॑ । ति॒ग्माः । अ॒ग्ने॒ । तव॑ । त्विषः॑ ।
द॒त्ऽभिः । वना॑नि । ब॒प्स॒ति॒ ॥

सायणभाष्यम्

हे अग्ने तव तिग्मास्तीक्ष्णास्त्विषोदीप्तयः आरोकाइव आरोचमानाः पशवइव दद्धिर्दन्तैर्वनान्यरण्यानि बप्सति भक्षयन्ति घेदहेति त्रयं पुरकम् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९