मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् ४

संहिता

हर॑यो धू॒मके॑तवो॒ वात॑जूता॒ उप॒ द्यवि॑ ।
यत॑न्ते॒ वृथ॑ग॒ग्नयः॑ ॥

पदपाठः

हर॑यः । धू॒मऽके॑तवः । वात॑ऽजूताः । उप॑ । द्यवि॑ ।
यत॑न्ते । वृथ॑क् । अ॒ग्नयः॑ ॥

सायणभाष्यम्

हरयोहरणशीला वातजूता वातप्रेरिता धूमकेतवो धूमध्वजा अग्नयः उपद्यव्यन्तरिक्षे वृथक् पृथग्यतन्ते गच्छन्ति । पृथगित्यनेन सममव्ययं वृथगि- ति । पृथगित्येव वाजसनेयिनः पठन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९