मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् ५

संहिता

ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धास॒ः सम॑दृक्षत ।
उ॒षसा॑मिव के॒तवः॑ ॥

पदपाठः

ए॒ते । त्ये । वृथ॑क् । अ॒ग्नयः॑ । इ॒द्धासः॑ । सम् । अ॒दृ॒क्ष॒त॒ ।
उ॒षसा॑म्ऽइव । के॒तवः॑ ॥

सायणभाष्यम्

एते त्ये एते अग्नयः वृथक् पृथगिद्धासोग्निहोत्रिभिः समिद्धाःसन्तः उषसामिच केतवः उषसां प्रज्ञापकाइव समदृक्षत सम्यक् दृश्यन्ते ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९