मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् ८

संहिता

जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा॑ जञ्जणा॒भव॑न् ।
अ॒ग्निर्वने॑षु रोचते ॥

पदपाठः

जि॒ह्वाभिः॑ । अह॑ । नन्न॑मत् । अ॒र्चिषा॑ । ज॒ञ्ज॒णा॒ऽभव॑न् ।
अ॒ग्निः । वने॑षु । रो॒च॒ते॒ ॥

सायणभाष्यम्

अग्निर्जिह्वाभिरह ज्वालाभिरेव । नंनमत् अन्नवद्वनस्पतीनत्यन्तं भक्षयन् । अर्चिषा तेजसा जंजणाभवन् ज्वलन् जञ्जणाभवन् मल्मलाभन्निति ज्वलतिकर्मसुपाठात् वनेष्वरण्येषु रोचते प्रकाशते ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०