मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् १०

संहिता

उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो॑चत॒ आहु॑तम् ।
निंसा॑नं जु॒ह्वो॒३॒॑ मुखे॑ ॥

पदपाठः

उत् । अ॒ग्ने॒ । तव॑ । तत् । घृ॒तात् । अ॒र्चिः । रो॒च॒ते॒ । आऽहु॑तम् ।
निंसा॑नम् । जु॒ह्वः॑ । मुखे॑ ॥

सायणभाष्यम्

हे अग्ने तव घृतादाहुतं घृतेनाहुतं जुह्वोहोमसाधनभूतायाः स्रुचोमुखे निंसानं लिहानं तदर्चिः उद्रोचते प्रकाशते ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३०