मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् ११

संहिता

उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑ ।
स्तोमै॑र्विधेमा॒ग्नये॑ ॥

पदपाठः

उ॒क्षऽअ॑न्नाय । व॒शाऽअ॑न्नाय । सोम॑ऽपृष्ठाय । वे॒धसे॑ ।
स्तोमैः॑ । वि॒धे॒म॒ । अ॒ग्नये॑ ॥

सायणभाष्यम्

उक्षान्नाय उक्षा अन्नं अदनीयं हविर्यस्यासावुक्षान्नस्तस्मै वशान्नाय वशा अन्नं यस्यासौ वशान्नस्तस्मै सोमपृष्ठाय सोमघृतपृष्ठाय वेधसे विधात्रे कामानामग्नये स्तोमैर्विधेम परिचरेम ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१