मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् १२

संहिता

उ॒त त्वा॒ नम॑सा व॒यं होत॒र्वरे॑ण्यक्रतो ।
अग्ने॑ स॒मिद्भि॑रीमहे ॥

पदपाठः

उ॒त । त्वा॒ । नम॑सा । व॒यम् । होतः॑ । वरे॑ण्यक्रतो॒ इति॒ वरे॑ण्यऽक्रतो ।
अग्ने॑ । स॒मित्ऽभिः॑ । ई॒म॒हे॒ ॥

सायणभाष्यम्

उतापिच हे होतर्देवानांह्वातर्वरेण्यक्रतो वरणीयप्रज्ञाग्ने त्वा त्वां वयमाङ्गिरसाः नमसान्नेन हविषा समिद्धिश्चेमहे याचामहे ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१