मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् १३

संहिता

उ॒त त्वा॑ भृगु॒वच्छु॑चे मनु॒ष्वद॑ग्न आहुत ।
अ॒ङ्गि॒र॒स्वद्ध॑वामहे ॥

पदपाठः

उ॒त । त्वा॒ । भृ॒गु॒ऽवत् । शु॒चे॒ । म॒नु॒ष्वत् । अ॒ग्ने॒ । आ॒ऽहु॒त॒ ।
अ॒ङ्गि॒र॒स्वत् । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हे शुचे स्वभावतः शुद्धाहुताग्ने त्वा त्वां भृगुवत् यथा भृगुस्तथा । मनुष्वत् यथा च मनुस्तथा अङ्गिरस्वदङ्गिरोवच्च हवामहे ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१