मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् १५

संहिता

स त्वं विप्रा॑य दा॒शुषे॑ र॒यिं दे॑हि सह॒स्रिण॑म् ।
अग्ने॑ वी॒रव॑ती॒मिष॑म् ॥

पदपाठः

सः । त्वम् । विप्रा॑य । दा॒शुषे॑ । र॒यिम् । दे॒हि॒ । स॒ह॒स्रिण॑म् ।
अग्ने॑ । वी॒रऽव॑तीम् । इष॑म् ॥

सायणभाष्यम्

हे अग्ने सः प्रसिद्धस्त्वं विप्राय मेधाविने दाशुषे हविषां प्रदात्रे यजमानाय सहस्रिणं सहस्रसंख्याकमपरिमितं रयिं धनं वीरवतीं पुत्रपौत्रादिसहित- मिषमन्नंच देहि ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१