मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् १८

संहिता

तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वा॑ः सुक्षि॒तय॒ः पृथ॑क् ।
अग्ने॒ कामा॑य येमिरे ॥

पदपाठः

तुभ्य॑म् । ताः । अ॒ङ्गि॒रः॒ऽत॒म॒ । विश्वाः॑ । सु॒ऽक्षि॒तयः॑ । पृथ॑क् ।
अग्ने॑ । कामा॑य । ये॒मि॒रे॒ ॥

सायणभाष्यम्

हे अङ्गिरस्तम अङ्गिरसां श्रेष्ठाग्ने तुभ्यं विश्वाः सर्वास्ताः प्रसिद्धाः सुक्षितयः प्रजाः कामायात्मनः कामसिद्ध्यर्थं पृथग्येमिरे नियच्छन्ति ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२