मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् १९

संहिता

अ॒ग्निं धी॒भिर्म॑नी॒षिणो॒ मेधि॑रासो विप॒श्चितः॑ ।
अ॒द्म॒सद्या॑य हिन्विरे ॥

पदपाठः

अ॒ग्निम् । धी॒भिः । म॒नी॒षिणः॑ । मेधि॑रासः । वि॒पः॒ऽचितः॑ ।
अ॒द्म॒ऽसद्या॑य । हि॒न्वि॒रे॒ ॥

सायणभाष्यम्

मनीषिणो मनसईश्वराः मेधिरासो मेधाविनो विपश्चितः प्राज्ञाः यजमाना धीभिः कर्मभिरद्मसद्यायान्नस्य भजनायाग्निं हिन्विरे प्रीणयन्ति ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३२