मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् २२

संहिता

तमी॑ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः ।
इ॒मं नः॑ शृणव॒द्धव॑म् ॥

पदपाठः

तम् । ई॒ळि॒ष्व॒ । यः । आऽहु॑तः । अ॒ग्निः । वि॒ऽभ्राज॑ते । घृ॒तैः ।
इ॒मम् । नः॒ । शृ॒ण॒व॒त् । हव॑म् ॥

सायणभाष्यम्

योग्निः घृतैः सहआहुतो विभ्राजते यश्च नोस्माकं इमं हवमाह्वानं शृणवच्छृणोति तमग्निमीळिष्व स्तुहि ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३