मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् २३

संहिता

तं त्वा॑ व॒यं ह॑वामहे शृ॒ण्वन्तं॑ जा॒तवे॑दसम् ।
अग्ने॒ घ्नन्त॒मप॒ द्विषः॑ ॥

पदपाठः

तम् । त्वा॒ । व॒यम् । ह॒वा॒म॒हे॒ । शृ॒ण्वन्त॑म् । जा॒तऽवे॑दसम् ।
अग्ने॑ । घ्नन्त॑म् । अप॑ । द्विषः॑ ॥

सायणभाष्यम्

हे अग्ने जातवेदसं जातधनं जातप्रज्ञं वा द्विषः शत्रूनपघ्नन्तं हिंसन्तं शृण्वन्तमस्मदीयमाह्वानं शृण्वन्तंच त्वा त्वां वयमाङ्गिरसा हवामहे ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३