मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् २६

संहिता

घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां॑सि वि॒श्वहा॑ ।
अग्ने॑ ति॒ग्मेन॑ दीदिहि ॥

पदपाठः

घ्नन् । मृ॒ध्राणि॑ । अप॑ । द्विषः॑ । दह॑न् । रक्षां॑सि । वि॒श्वहा॑ ।
अग्ने॑ । ति॒ग्मेन॑ । दी॒दि॒हि॒ ॥

सायणभाष्यम्

हे अग्ने त्वं मृध्राणि हिंसकान् द्विषोद्वेष्टृनपघ्नन् हिंसन् विश्वहा सर्वदा रक्षांसि च दहन् तिग्मेन तीक्ष्णेन तेजसा दीदिहि दीप्यस्व ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४