मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् २७

संहिता

यं त्वा॒ जना॑स इन्ध॒ते म॑नु॒ष्वद॑ङ्गिरस्तम ।
अग्ने॒ स बो॑धि मे॒ वचः॑ ॥

पदपाठः

यम् । त्वा॒ । जना॑सः । इ॒न्ध॒ते । म॒नु॒ष्वत् । अ॒ङ्गि॒रः॒ऽत॒म॒ ।
अग्ने॑ । सः । बो॒धि॒ । मे॒ । वचः॑ ॥

सायणभाष्यम्

हे अङ्गिरस्तमाग्ने यं त्वा त्वां जनासो जनाः मनुष्वत् यथामनुस्तथा इन्धते दीपयन्ति सत्वं मे मदीयं वचः स्तुतिं बोधि बुध्यस्व ॥ २७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४