मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् २८

संहिता

यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा॑ सहस्कृत ।
तं त्वा॑ गी॒र्भिर्ह॑वामहे ॥

पदपाठः

यत् । अ॒ग्ने॒ । दि॒वि॒ऽजाः । असि॑ । अ॒प्सु॒ऽजाः । वा॒ । स॒हः॒ऽकृ॒त॒ ।
तम् । त्वा॒ । गीः॒ऽभिः । ह॒वा॒म॒हे॒ ॥

सायणभाष्यम्

हे अग्ने यद्यस्त्वं दिविजा दिविभवोसि भवसि अप्सुजा वान्तरिक्षजातश्च भवसि सहस्कृत सहसा बलेन कृतश्चासि तं त्वा त्वामग्निं गीर्भिः स्तुतिभि- र्हवामहे ह्वयामः ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४