मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् २९

संहिता

तुभ्यं॒ घेत्ते जना॑ इ॒मे विश्वा॑ः सुक्षि॒तय॒ः पृथ॑क् ।
धा॒सिं हि॑न्व॒न्त्यत्त॑वे ॥

पदपाठः

तुभ्य॑म् । घ॒ । इत् । ते । जनाः॑ । इ॒मे । विश्वाः॑ । सु॒ऽक्षि॒तयः॑ । पृथ॑क् ।
धा॒सिम् । हि॒न्व॒न्ति॒ । अत्त॑वे ॥

सायणभाष्यम्

हे अग्ने तुभ्यं घ इत् त्वदर्थमेव ते इमे मया दृश्यमाना जना विश्वाः सर्वाः सुक्षितयः प्रजाश्च धासिमन्नं हविरत्तवे अदनाय पृथक् हिन्वन्ति प्रेरयन्ति ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४