मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् ३०

संहिता

ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः ।
तर॑न्तः स्याम दु॒र्गहा॑ ॥

पदपाठः

ते । घ॒ । इत् । अ॒ग्ने॒ । सु॒ऽआ॒ध्यः । अहा॑ । विश्वा॑ । नृ॒ऽचक्ष॑सः ।
तर॑न्तः । स्या॒म॒ । दुः॒ऽगहा॑ ॥

सायणभाष्यम्

हे अग्ने तेघेत् त्वदर्थमेव खलु वयं स्वाध्यः सुकर्माणः सन्तः विश्वा विश्वान्यहा अहानि नृचक्षसोद्रष्टारश्च दुर्गहा दुःखेन गाहयितव्यानि तरन्तः स्याम भवेम ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४