मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४३, ऋक् ३२

संहिता

स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्त्सूर्यो॒ न र॒श्मिभि॑ः ।
शर्ध॒न्तमां॑सि जिघ्नसे ॥

पदपाठः

सः । त्वम् । अ॒ग्ने॒ । वि॒भाऽव॑सुः । सृ॒जन् । सूर्यः॑ । न । र॒श्मिऽभिः॑ ।
शर्ध॑न् । तमां॑सि । जि॒घ्न॒से॒ ॥

सायणभाष्यम्

हे अग्ने विभावसुर्दीप्तिरोचनः सः प्रसिद्धस्त्वं सृजन्नुद्यन् सूर्योन यथा सूर्यस्तथा रश्मिभिः शर्धन् बलं कुर्वन् तमांसि जिघ्नसे नाशयसि ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३५