मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् १

संहिता

स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो॑धय॒ताति॑थिम् ।
आस्मि॑न्ह॒व्या जु॑होतन ॥

पदपाठः

स॒म्ऽइधा॑ । अ॒ग्निम् । दु॒व॒स्य॒त॒ । घृ॒तैः । बो॒ध॒य॒त॒ । अति॑थिम् ।
आ । अ॒स्मि॒न् । ह॒व्या । जु॒हो॒त॒न॒ ॥

सायणभाष्यम्

हे ऋत्विजोतिथिमतिथिवत्प्रियमग्निं समिधा दुवस्यत परिचरत । घृतैर्दीप्तिसाधनैराज्यैर्बोधयतच । अस्मिन्समिद्धेग्नौ हव्या हवींष्याजुहोतनाजुहु- तच ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६