मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् ४

संहिता

उत्ते॑ बृ॒हन्तो॑ अ॒र्चयः॑ समिधा॒नस्य॑ दीदिवः ।
अग्ने॑ शु॒क्रास॑ ईरते ॥

पदपाठः

उत् । ते॒ । बृ॒हन्तः॑ । अ॒र्चयः॑ । स॒म्ऽइ॒धा॒नस्य॑ । दी॒दि॒ऽवः॒ ।
अग्ने॑ । शु॒क्रासः॑ । ई॒र॒ते॒ ॥

सायणभाष्यम्

हे दीदिवोदीप्ताग्ने समिधानस्य समिध्यमानस्य ते तव बृहन्तोमहान्तः शुक्रासोज्वलन्तोर्चयः दीप्तयः उदीरयते उद्गच्छन्ति ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६