मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् ५

संहिता

उप॑ त्वा जु॒ह्वो॒३॒॑ मम॑ घृ॒ताची॑र्यन्तु हर्यत ।
अग्ने॑ ह॒व्या जु॑षस्व नः ॥

पदपाठः

उप॑ । त्वा॒ । जु॒ह्वः॑ । मम॑ । घृ॒ताचीः॑ । य॒न्तु॒ । ह॒र्य॒त॒ ।
अग्ने॑ । ह॒व्या । जु॒ष॒स्व॒ । नः॒ ॥

सायणभाष्यम्

हे हर्यत कामयमानाग्ने मम मदीया घृताचीर्घृतमञ्चन्त्योजुह्वः स्रुचस्त्वा त्वामुपयन्तु नोस्माकं हव्या हव्यानि जुषस्व सेवस्व च ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३६