मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् ६

संहिता

म॒न्द्रं होता॑रमृ॒त्विजं॑ चि॒त्रभा॑नुं वि॒भाव॑सुम् ।
अ॒ग्निमी॑ळे॒ स उ॑ श्रवत् ॥

पदपाठः

म॒न्द्रम् । होता॑रम् । ऋ॒त्विज॑म् । चि॒त्रऽभा॑नुम् । वि॒भाऽव॑सुम् ।
अ॒ग्निम् । ई॒ळे॒ । सः । ऊं॒ इति॑ । श्र॒व॒त् ॥

सायणभाष्यम्

मन्द्रं मादनं होतारं देवानामाह्वातारमृत्विजमृतौ यष्टव्यं चित्रभानुं चित्रदीप्तिं विभावसुं दीप्तिधनमग्निमीळे स्तौमि । सोग्निः श्रवदस्मदीयां स्तुतिं श्रृणोत्वेव ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७