मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् ७

संहिता

प्र॒त्नं होता॑र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुम् ।
अ॒ध्व॒राणा॑मभि॒श्रिय॑म् ॥

पदपाठः

प्र॒त्नम् । होता॑रम् । ईड्य॑म् । जुष्ट॑म् । अ॒ग्निम् । क॒विऽक्र॑तुम् ।
अ॒ध्व॒राणा॑म् । अ॒भि॒ऽश्रिय॑म् ॥

सायणभाष्यम्

प्रत्नं पुराणं होतारं देवानामाह्वातारं ईड्यं स्तुत्यं जुष्टं प्रीतं सेवितं वा कविक्रतुं क्रांतकर्माणं अध्वराणां यज्ञानामभिश्रियमभिश्रयितारं अग्निमिळे स्तौमि ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७