मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् ८

संहिता

जु॒षा॒णो अ॑ङ्गिरस्तमे॒मा ह॒व्यान्या॑नु॒षक् ।
अग्ने॑ य॒ज्ञं न॑य ऋतु॒था ॥

पदपाठः

जु॒षा॒णः । अ॒ङ्गि॒रः॒ऽत॒म॒ । इ॒मा । ह॒व्यानि॑ । आ॒नु॒षक् ।
अग्ने॑ । य॒ज्ञम् । न॒य॒ । ऋ॒तु॒ऽथा ॥

सायणभाष्यम्

हे अङ्गिरस्तमांगिरसांश्रेष्ठाग्ने इमा इमान्यस्मदीयानि हव्यानि हवींष्यानुषगनुषक्तं यथाभवति तथा जुषाणः सेवमानोभव । ऋतुथा कालेकाले यज्ञं च नय ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७