मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् ९

संहिता

स॒मि॒धा॒न उ॑ सन्त्य॒ शुक्र॑शोच इ॒हा व॑ह ।
चि॒कि॒त्वान्दैव्यं॒ जन॑म् ॥

पदपाठः

स॒म्ऽइ॒धा॒नः । ऊं॒ इति॑ । स॒न्त्य॒ । शुक्र॑ऽशोचे । इ॒ह । आ । व॒ह॒ ।
चि॒कि॒त्वान् । दैव्य॑म् । जन॑म् ॥

सायणभाष्यम्

हे सन्त्य भजनशील शुक्रशोचे ज्वलद्दीप्ते त्वं समिधानउ समिध्यमानएव दैव्यं देवसम्बन्धिनं जनं चिकित्वान् जानन्निह यज्ञे आवह ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७