मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् १०

संहिता

विप्रं॒ होता॑रम॒द्रुहं॑ धू॒मके॑तुं वि॒भाव॑सुम् ।
य॒ज्ञानां॑ के॒तुमी॑महे ॥

पदपाठः

विप्र॑म् । होता॑रम् । अ॒द्रुह॑म् । धू॒मऽके॑तुम् । वि॒भाऽव॑सुम् ।
य॒ज्ञाना॑म् । के॒तुम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

विप्रं मेधाविनं होतारं ह्वातारं अद्रुहमद्रोग्धारं धूमकेतुं धूमध्वजं विभावसुं दीप्तिधनं यज्ञानां केतुं पताकस्थानीयमग्निमीमहे अभीष्टं याचामहे ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३७