मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ४४, ऋक् १३

संहिता

ऊ॒र्जो नपा॑त॒मा हु॑वे॒ऽग्निं पा॑व॒कशो॑चिषम् ।
अ॒स्मिन्य॒ज्ञे स्व॑ध्व॒रे ॥

पदपाठः

ऊ॒र्जः । नपा॑तम् । आ । हु॒वे॒ । अ॒ग्निम् । पा॒व॒कऽशो॑चिषम् ।
अ॒स्मिन् । य॒ज्ञे । सु॒ऽअ॒ध्व॒रे ॥

सायणभाष्यम्

ऊर्जोन्नस्य नपातं पुत्रं पावकशोचिषं शोधकदीप्तिमग्निं स्वध्वरे असुरैरत्यन्तमहिंस्येस्मिन्यज्ञे आहुवे आह्वयामि ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८